ब्रह्मरुद्रादिभिदे॑वैः ज्ञानप्रेप्सुभिरथित:
अवतीणॉ॑ महाविष्णुः सत्यवत्यां पराशरात् ॥१॥

कृष्णनामापि भगवान् दयाळुमु॑निवऴभ:
चतुधा॑ व्यभजत् वेदं इति व्यासाभिधो भवत् ॥२॥

गंगायाः पस्चिमे तीरे रम्ये भव्ये च मन्दिरे
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥३॥

कोटिसूय॑प्रतीकाशं तमोज्ञानं प्रणाशयत्
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥४॥

दश॑नादेव लोकानां पापराशिं विनाशयत्
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥५॥

हरत् सन्तापमखिलं मन्दस्मितमुखेन्दुना
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥६॥

शारदाम्बुजनेत्राभ्यां मोदयत् प्रणतान् जनान्
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥७॥

उत्तारयत् नतान् प्रीत्या दुस्तरात् भवसागरात्
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥८॥

ऋगाचाये॑ण पैलेन समचि॑तपदाम्बुजं
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥९॥

यजुभि॑: संस्तुतं भक्तव्या वैशम्पायनयोगिना
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥१०॥

जैमिन्याचाय॑वयो॑ण सामगानेन तोषितं
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥११॥

सुमन्तुना मुदा नित्यं मंत्रैराथव॑णैनु॑तं
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥१२॥

श्रीभागवतपाठेन शुकाचाये॑ण पूजितं
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥१३॥

श्रद्धया याचितं भक्त्या ददत् सवं॑ शुभं मुदा
राराजते परं ब्रह्म व्यासरूपं सनातनम् ॥१४॥

व्यासरूपं परं ब्रह्म स्तोत्रेणानेन संस्तुतं
ददाति सकलं श्रेयः दॄढां प्रीतिं श्रियः पतौ ॥१५॥ॐ॥

 Sri Vyasa Brahma Sthothram composed by H. H. Srimad Sudhindra Thirtha Swamiji
(Click here for Roman or here Malayalam script)